The Anthology

UPDATE: Submissions for the 2012 anthology are now closed.  Thank you to everyone who submitted verses. Scroll down to see the full list.  Stay tuned to see which verses are selected for the print anthology.

—————————————————————————————————————–

Every year, Rasāla publishes an anthology of individual verses by Sanskrit’s finest poets, modern and ancient, based on verses sent in by our readers. Following the traditional anthologists, who compiled huge collections of poetry, much of it unattributed, the Rasāla anthologies are arranged around a theme such as love in separation or descriptions of the seasons.

Sanskrit enthusiasts and poets submit verses – their own or those or personal favourites – on that year’s topic and the best 108 submissions are published in the anthology.

The first Rasāla Anthology, entitled ‘Śarvarī’ or ‘The Night’, is due out in 2012.  Submissions are invited up until June 2012.  To read more about submitting a verse, please see the announcement:

Click for the announcement in English

Click for the announcement in Sanskrit

Those whose verses are selected for the anthology are credited in the book and receive a free copy of the book.  All verses that are submitted are published here on the website, whether or not they are selected for the published book.

———————————————————————————————————

Verses submitted to date for the Rasāla Anthology 2012 (with the most recently submitted verses are at the top)

Please note that verses which current poets have composed and sent have not been corrected; those selected for the anthology will be corrected in consultation with the author.

नानार्थकामकुहनाकुहरेष्वजस्र-

मश्रान्तचाटुचरितं भुवनार्भकं त्वम् ।

मातर्निशे ! शिशिरयाशु सुधांशुकान्ति-

स्तन्यास्पदेभवदुदारविशालवत्से ॥

 

शून्यावलोकनकला भवदीक्षणर्द्धि-

र्मौनानुकर्णनकथा भवदुक्तिभक्तिः ।

स्वास्तित्वविस्मृततिसुधा भवदात्मभूति-

र्मातर्निशे ! किमिव ते कथये विभूतिम् ॥

 

दर्शात्मना यदुदिता भवदीयभीषा

श्रुत्यन्तवर्णितमहत्त्वमिहाजुहोति ।

मातर्निशे ! भवदभीकमुदारधाम

वैभावरं यदुचितं वितनोति नित्याम् ॥

 

तन्मात्रपञ्चकविनिग्रहणातिरिक्ते !

भावैकवेद्यविभवे ! मनसाप्यधर्ष्ये ! ।

सर्गापसर्गनियमैरतिरिक्तसत्ते !

मातर्निशे ! मुखरता क्व तवाग्रतो मे ॥

 

व्यालुम्पसि त्रिभुवने किल मायिकं य-

न्नानात्मनास्ति निखिलं मनसां दृशां तत् ।

ब्रह्मेव भासि भविकाय तदस्तु तस्मा-

न्मातर्निशे ! महसि तेऽस्तु ममान्तरीक्षा ॥

 

 

लोकधर्मी दिवा वार्ता भावरूषितवास्तवम् ।

नाट्यधर्मी निशा काव्यमादर्शं रसरञ्जितम् ॥

 

गौरी ज्यौत्स्नीषु रम्यासि कालिकाऽमासु भीकरी ।

शान्तघोरस्वरूपेण शिवं सन्तनुषे निशे ॥

 

दिवःकाव्यक्रियार्थं किं कल्पिता क्षणदा मषी ।

विधात्रा विश्वनिर्मात्रा सर्ववर्णपरायणा ॥

 

शर्वरी शर्वरीतिं किं वर्वर्ति विधुनाऽधुना ।

येनैकेनैव सम्भाल्य करोटीं कार्मुकं मृगम् ॥

 

कृष्णति कालिन्दीयति नीलाचलति प्रफुल्लकैरवति ।

नैशं तमोऽतिचित्रं छलितकमेव प्रवर्तयति ॥

 

परिणतखमणिमदावलगिलनभयानकबुभुक्षवे तुभ्यम् ।

हिमकरकुमुदप्रभवप्रेम्णे घनतिमिरिकर्दमाय नमः ॥

 

ग्रामवधूरिव रजनी कट्यन्तकुटीनटत्सुधाकरकलशा ।

परितो द्युतिकीलालं गवेषयन्ती जगन्मरुस्थलमटति ॥

 

भानुरोटिकां चन्द्रूपोलिकां भुक्तवानसौ दर्शबालकः ।

खण्डशर्कराखण्डतारकाभक्षणार्थमुत्कण्ठते तमाम् ॥

 

चोरजारमुनिभिर्दिवसाग्नौ हंसकंसपरिहिंसितसत्त्वैः ।

यत्कृतं घनतपस्तदिदानीं नक्तकृष्णवपुषाऽवततार ॥

 

श्यामाङ्गना स्वाननलोकनाय स्वदर्पणे पूर्णसुधांशुबिम्बे ।

चक्रे मतिं तत्प्रतिबिम्बमेव प्रवर्तयन्तीन्दुकलङ्कवृत्त्या ॥

 

साङ्केन्दुबिम्बं मुरजामुखं यत्तारामरीचिस्फुटवक्त्रलेपम् ।

सज्जं निशानर्तनवर्तणार्थं कह्लारपङ्क्तिः कुतुपायतेऽत्र ॥

 

नेयं तमिस्रा विधुभद्रकेण सहोडुधेनूः परिचारयती ।

प्रभापयोदोहनमाचरन्ती या कापि गोपी किल कालकान्ता ॥

 

क्लीबं जरापलितशारदनीरदाञ्चद्व्योमाप्यवाप्य तिमिरच्छलनीलकेशम् ।

प्रायोऽभिसर्तुमिह वाञ्छति लाञ्छितश्रि सन्ध्यामवन्ध्यरतिरागरसां रसान्ते ॥

 

भास्वन्तमम्बरभुजङ्गमभोगरत्नं कालाहितुण्डिकवरस्तरसा जहार ।

सन्ध्या तदीयदयिता चतुराऽस्यरक्षादक्षा विनिक्षिपति नैशविशालकोशे ॥

 

शिशुहृदयभयं किं नक्तरूपे जजृम्भे

विरहदहनधूमः किं तमःकायमैच्छत् ।

अगतिकगतिनीतिः किं निशानिष्ठिताऽभूत्

सकलनयनवृत्तिः किं क्षपाक्षेप्तिमैषीत् ॥

 

जगत्पाटीं जाग्रद्दिवसगणितक्लिष्टपटलीं

पणाकीर्णां भास्वत्किरणखटिकोत्कीर्णरचनाम् ।

महाकालाचार्येङ्गितमनुसरन्तीह रजनी

प्रमार्ष्टि प्रस्तोतुं तिमिरकवितां सम्प्रति नुताम् ॥

Submitted and composed by Dr R Ganesh, Bangalore

———————————————————————————————————-

नक्तं शशी नभसि यो प्रकरोति शुभ्रम्

चेतांसि रञ्जयति यश्च जनान् विदग्धान् ।

पूर्णासु रात्रिषु भवन्ति शुधांशुपूर्णाः

पूर्णाहि याति दशपञ्चदिनान्तरेषु ॥ १ ॥

 

क्षामाः कदापि न भवन्तु दशाश्च तस्यः

स्निग्धासु रात्रिषु भवन्ति समग्रशुक्लाः ।

शुक्ला निशा हरति चर्म्मरुजं समस्तं

त्वं ह्येव मानिनि विनाशाय सर्वपापं ॥ २ ॥

 

कल्याणवाहकनिशापतिरेव यस्त्वं

जन्माभवत्तव सुरम्यसमुद्रमध्ये ।

नीलोत्पलानि विकशन्ति तव प्रसादात्

नक्षत्रमध्यरततारकमध्यवासी ॥ ३ ॥

 

निशाशशाङ्को गगणेषु राजते

सुधाब्धिमध्याद् गगनेषु याति यः ।

त्वमेव व्याप्नोषि स्वतेजसा निशां

निशामुखं रञ्जितवान् सदा मुदा ॥ ४ ॥

 

निशि निशि च जगन्निद्रायितं मातुरङ्के

विहरति हि घणारण्ये महाव्याघ्रजातम् ।

तमसि निशि हि हिंस्रो जायते सर्वजन्तुः

विकशति सलिले पद्मं सुरम्ये सुगन्धे ॥ ५ ॥

 

दिनावसाने शशिनः मुखं सदा

विभाति कान्तासुखसंगमेन वै ।

निशावसाने तरुमूलवासिनः

व्रजन्ति शीघ्रं ससुखं हि वायसाः ॥ ६ ॥

 

निशातुषारा निगरन्ति पादपे

पतन्ति चन्द्रस्य विभा महीतले ।

भवन्ति पत्राणि सितानि सर्वतः

निशा कृता वै धवलाहि शोभया ॥ ७ ॥

 

निशान्धकारे विहरन्ति तस्कराः

तमःसकाशे प्रविशन्ति धैर्यया ।

निषिद्धकर्माणि भवन्ति सर्वतः

निशासु सर्वं मुदितं हि जायते ॥ ८ ॥

 

निशाशशाङ्के उदिते च राजते

समग्रबृक्षस्थितपत्रशोभितं ।

कृतं हि ज्योत्स्नाधवलायितं च यत्

समग्रपुष्पं प्रभयाप्लुतं कृतम् ॥ ९ ॥

 

विभातु सर्वत्र सिता हि शर्वरी

तमः सहस्रात्तु गतासि शर्वरी ।

विशिष्टमानं न जहातु शर्वरी

सदा हि प्रायातु शुभा हि शर्वरी ॥ १० ॥ निशाप्रशंसा

 

Composed and submitted by Dr Rabindra Nath Dev Sarma, Golaghat – Assam

————————————————————————————————————–

कूजन्तङ्कूजनजनमहो चोदनो वासयानम्

यत्सुश्रान्ते श्रमति श्रमिको वृत्तिकृत्ये रतो यः ।

शस्यान् यो भावयति दिनपः प्राग्दिशः कुण्डलं यः

कालेनास्तङ्गमितमहिमा याति कल्याणहेतोः ॥ १

 

सूर्ये सायं वरुणदिशि खे वारिवाहे निवेशे

वन्यो वातो वहति कलयन्नीलतामभ्रतुल्याम् ।

शान्तन्तावत् समखिलवनं श्रूयते श्वाससष्टिः

गर्जं सैंहं भवति भयदन्निश्चतङ्कोशदूरात् ॥ २

 

अस्तङ्गते दिनकरे समये सुकान्तिः

सख्या समा सहचरी शिखरे सदुच्चे ।

युद्धाङ्गणे पतिगते निजदेशहेतोः

कान्तेव सा निजतनुर्विखिलीचकार ॥ ३

 

यथा यथा सूरचरः सुयाति शं

समीह्यते न्रा सदनन्तथा तथा ।

विम्लायते तत्कमलाङ्गिनीगृहम्

निकायरूपा नलिनी सुनन्दति ॥ ४

 

लीने शुभे दिनमणौ सुमणी रजन्याः

सूते सदा सुखकरं सुरदम्प्रकाशम् ।

साधुर्हि वेत्ति सुकृता ह्युपकारश्रेणी

नीचस्सुकृत्यहनने नितरां सुविज्ञः ॥ ५

 

मोदस्सुचन्द्रविकचे कुमुदाङ्गनानाम्

तज्जायमानसुरभौ भुवि चन्द्रिकायाम् ।

मग्नाः हि भोगसुरताः ननु योगरक्ताः

सुप्तौ समाधिनिलयेष्वभिसंरमन्ते ॥ ६

 

होमाग्निर्निजदिव्यदीप्तिनिकरैरुद्भूतपुण्यात्मभिः

ध्वान्ते घोरतरे प्रकाशमकरोत् स्वाभ्याशवर्त्तिस्थले ।

तज्जन्धूमघनस्तमिस्रसुघने लीनोऽन्तरङ्गैरिव

चक्रेऽन्धान् मनुजान्न तत्वनयनान् वृन्दङ्खलानमिदम् ॥ ७

 

योऽमुन्तापतमं समूलमहरच्छीतैस्सुशुभ्रैर्करैः

उद्भिज्जेषु सरन् चुचुम्ब वसुन्धाङ्कान्त्या तमोनिष्प्रभाम् ।

सोऽयंल्लाञ्छनशोभनश्शशधरो नन्द्यश्चकोरात्मने

ऐन्द्रायान्दिशि प्रैरयन्निजकरान्नक्तञ्चरो व्याधिहा ॥ ८

 

Composed and submitted by Ankit, Prabhat Ashram, Merut

————————————————————————————————–

सुधामयूखो निशि नीरजाक्षीं सुधामयूखैः सुखयाञ्चकार ।

निशीथिनीपद्मपलाशशोभां निशीथिनीशो व्यदिशद्दृशेऽस्याः ॥ २-२९ ॥

 

दिनात्यये तीव्रजवेन नीडान्यागच्छतां व्योम्नि वयोवराणाम् ।

पक्षप्रभारञ्जितदिक्तटानामापूर्यमाणं विमलैर्विरावैः ॥ ४-६९ ॥

 

क्वचिन्मुहुस्तापसतल्लजेभ्योऽभ्यस्ताखिलश्रौतरहस्यमन्त्रैः ।

सान्द्रस्वराढ्यैर्बटुभिः प्रगीतवेदध्वनिं मिश्रविहङ्गकूजम् ॥ ४-७० ॥

 

क्वचिन्मुदा गोमयलिप्तवेदीप्रदीप्तवैश्वानरविस्फुलिङ्गैः ।
संव्रीडितास्ताचलगन्तुकामदिनेशबिम्बं च सदावलम्बम् ॥ ७१ ॥

 

क्वचिद्विगाढैस्सलिलं मुनीन्द्रैर्विधीयमानामलसान्ध्यसन्ध्यम् ।

उद्बाहुभिर्ब्रह्मगृणद्भिरुच्चैरुपस्थितादित्यमबन्धसत्त्वम् ॥ ४-७२ ॥

 

ललितलक्ष्मण लक्षय पश्चिमामनुपमामुपमामुपमामुमाम्।

रविकरैररुणां नववल्लभां स्वपतिना रमितामिव कुङ्कुमैः ॥ १६-६३ ॥

 

रसितरश्मिरथो रथिनां रथोपरि वरो विचकास्ति विभास्वरः ।

कमलिनीरमणीकुचकुङ्कुमारुणिमचारुकरोऽथ नभश्चरः ॥ १६-६४ ॥

 

वियति भूरि विहृत्य पयोजिनीप्रियकरो रसरञ्जितरश्मिमान् ।

अभिसरन्निव मञ्जुलमण्डलो दिशमुदञ्चति सम्प्रति पश्चिमाम् ॥ १६-६५ ॥

 

कमलिनीं विरहेण सयोजयन् स्वभगिनीं रजनीमिव मानयन् ।

मुखरयन् वयसां च कुटुम्बकं दिनकरोऽवति पश्चिमपर्वतम् ॥ १६-६६ ॥ श्रीभार्गवराघवीयम्

Composed by Jagadguru Rambhadracharya and submitted by Nityanand Misra

——————————————————————————————————-

धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं

दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।

अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं

ग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥ अमरुशतकम्

Submitted by Lana Oresic

—————————————————————————————————————

शीतांशुर्मां प्रदहति भवंश्चण्डचण्डांशुबिम्बः सर्पश्वासो मलयनिलयो मारुतो मां निनोति ।
भृज्यन्तीव श्रितशुचिगुणा शारदी रात्रिरेषा सर्वं सीते तव विरहिणो भासते मे प्रतीपम् ॥ २-८२ ॥

एषश्चन्द्रो वियति पिहितो वारिदैः पूर्णिमायां छन्नज्योतिः किमपि किमपि द्योतते प्रौष्ठपद्याम् ।
स्नातायास्ते चिकुरनिकरैराननं छाद्यमानं मन्दं मन्दं स्मितरदलसज्ज्योत्स्नयेवेक्ष्यमाणम् ॥ २-११७ ॥

राकाकान्तं वनदपिहितं नाप्नुवन्भाद्रपद्यां चीत्काराणां करुणमयुतैः पूरितः पूर्णिमायाम् ।
क्षुत्तृट्क्लान्तः प्रबलमनलं चन्द्रबुद्धिश्चकोरः खादन्नास्तेऽहमिव विरही विस्फुलिङ्गं शुगग्नेः ॥ २-११९ ॥

वर्षासन्ध्यासमयसलिलासारसङ्क्लिन्नपक्षा नीडेष्वेते विहगपतयः पक्षगूढाः प्रियाणाम् ।
कूजं कूजं कलकलरवं रम्यरात्र्यां रमन्ते रामस्त्वेको विरमति सुखाद्दूरितः स्वाञ्चलात्ते ॥ २-१२० ॥

दोषादोषाकरकरसुधाप्रोल्लसत्कैरवेषु द्राक्पत्रान्तर्दुरितसुषमाकौमुदीकेषु सत्सु ।
शस्यैर्लूनैः किल परिवृते भूतले लब्धयोगः प्रह्वैर्युक्तः कपिवरभटैरेमि रक्षःकृतान्तः ॥ २-१२८ ॥ भृङ्गदूतम्

Composed by Jagadguru Rambhadracharya, submitted by Nityanand Misra

———————————————————————————————–

अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।

क्षीबतामिव गतः क्षितिमेष्यँल्लोहितं वपुरुवाह पतङ्गः ॥ ९-३ ॥

 

गम्यतामुपगते नयनानां लोहितायति सहस्रमरीचौ ।

आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः ॥ ९-४ ॥

 

अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य ।

अस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु ॥ ९-७ ॥

 

आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः ।

आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥ ९-८ ॥

 

एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे ।

भास्वता निदधिरे भुवनानामात्मनीव पतितेन विशेषाः ॥ ९-१२ ॥

 

यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ ।

नीयते स्म नतिमुज्झितहर्षं पङ्कजं मुखमिवाम्बुरुहिण्या ॥ ९-१४ ॥

 

रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु ।

पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥ ९-१५ ॥

 

व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः ।

चूर्णमुष्टिरिव लम्भितकान्तिर्वासवस्य दिशमंशुसमूहः ॥ ९-१७ ॥

 

नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः ।

खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥ ९-१९ ॥

 

लेखया  विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे ।

दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥ ९-२१ ॥

 

संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः ।

यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ ९-३२ ॥ किरातार्जुनीयम्

Submitted by Nityanand Misra

——————————————————————————————————-

विवस्वतानायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम्।
गवोऽपि नेत्रापरनामधेयास्तेनेदमान्द्यं खलु नान्धकारैः॥ २२-३५ ॥ नैषधीयचरितम्

रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः।
ज्वलनं त्विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पतिः॥ ९-१३ ॥

स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति।
दधिरे रसनाञ्जनमपूर्वमतः प्रियवेशवर्त्म सुदृशो ददृशुः॥ ९-२१ ॥

विशदप्रभापरिगतं विबभावुदयाचलव्यहितेन्दुवपुः ।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥

कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम्।
क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति॥ ९-१६ , १७ ॥ शिशुपालवधम्
All five verses submitted by AS Rajagopalam

—————————————————————————————-

 

अभितापसंपदमथोष्णरुचिर्निजतेजसामसहमान इव ।

पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ ९-१ ॥

 

विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।

अभवद्गतः परिणतिं शिथिलः परिमन्दसूर्यनयनो दिवसः ॥ ९-३ ॥

 

अपराह्णशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।

निलयाय शाखिन इवाह्वयते दुदुराकुलाः खगकुलानि गिरः ॥ ९-४ ॥

 

नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।

अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ॥ ९-७ ॥

 

द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।

रुरुचे विरिञ्चिनखभिन्नबृहज्जगदण्डकैकतरखण्डमिव ॥ ९-९ ॥

 

अभितिग्मरश्मि चिरमाविरमादवधानखिन्नमनिमेषतया ।

विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी ॥ ९-११ ॥

 

विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् ।

चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥ ९-१४ ॥

 

अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूतिमिथुनं पततोः ।

पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥ ९-१५ ॥

 

व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्करुचि ।

दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥ ९-१९ ॥

किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः ।

विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ॥ ९-२० ॥

 

वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् ।

स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माघवनीम् ॥ ९-२५ ॥

 

प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः ।

दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम् ॥ ९-२९ ॥

 

उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।

प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥ ९-३० ॥

 

अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।

परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे ॥ ९-३१ ॥

 

दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतालिरुतैः ।

मुहुरामृशन्मृगधरोऽग्रकरैरुदशिश्वसत्कुमुदिनीवनिताम् ॥ ९-३४ ॥ शिशुपालवधम्

 

All verses submitted by Nityanand Misra

————————————————————————————-

विलोकनेनानुगृहाण तावद्दिशं जलानामधिपस्य दारान् ।

अक्षालि लाक्षापयसेव येयमपूरि पङ्कैरिव कुङ्कुमस्य ॥ २२-३ ॥

उच्चैस्तरादम्बरशैलमौलेश्च्युतो रविर्गैरिकगण्डशैलः ।

तस्यैव पातेन विचूर्णितस्य संध्यारजोराजिरिहोज्जिहीते ॥ २२-४ ॥

अस्ताद्रिचूडालयपक्कणालिच्छेकस्य किं कुक्कुटपेटकस्य ।

यामान्तकूजोल्लसितैः शिखौघैर्दिग्वारुणी द्रागरुणीकृतेयम् ॥ २२-५ ॥

पश्य द्रुतास्तंगतसूर्यनिर्यत्करावलीहैङ्गुलवेत्रयात्र ।

निषिध्यमानाहनि संध्ययापि रात्रिप्रतीहारपदेऽधिकारम् ॥ २२-६ ॥

आदाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः ।

अब्धौ निमज्जन्निव तापसोऽयं संध्याभ्रकाषायमधत्त सायम् ॥ २२-१२ ॥

अस्ताचलेऽस्मिन्निकषोपलाभे संध्याकषोल्लेखपरीक्षितो यः ।

विक्रीय तं हेलिहिरण्यपिण्डं तारावराटानियमादित द्यौः ॥ २२-१३ ॥

रामेषुमर्मव्रणनार्तिवेगाद्रत्नाकरः प्रागयमुत्पपात ।

ग्राहौघकिर्मीरितमीनकम्बु नभो न भोः कामशरासनभ्रु ॥ २२-१८ ॥

 

नभोनदीकूलकुलायचक्रीकुलस्य नक्तं विरहाकुलस्य ।

दृशोरपां सन्ति पृषन्ति ताराः पतन्ति तत्संक्रमणानि धाराः ॥ २२-२० ॥

 

पक्वं महाकालफलं किलासीत्प्रत्यग्गिरेः सानुनि भानुबिम्बम् ।

भिन्नस्य तस्यैव दृषन्निपाताद्बीजानि जानामितमां तमांसि ॥ २२-२९ ॥

 

ऊर्ध्वार्पितन्युब्जकटाहकल्पे यद्व्योम्नि दीपेन दिनाधिपेन ।

न्यधायि तद्भूममिलद्गुरुत्वं भूमौ तमः कज्जलमस्खलत्किम् ॥ २२-३२ ॥

 

त्विषं चकोराय सुधां सुराय कलामपि स्वावयवं हराय ।

ददज्जयत्येष समस्तमस्य कल्पद्रुमभ्रातुरथाल्पमेतत् ॥ २२-६५ ॥

 

पुत्री विधोस्ताण्डविकास्तु सिन्धोरश्या चकोरस्य दृशोर्वयस्या ।

तथापि सेयं कुमुदस्य कापि ब्रवीति नामैव हि कौमुदीति ॥ २२-७१ ॥

 

आदर्शदृश्यत्वमपि श्रितोऽयमादर्शदृश्यां न बिभर्ति मूर्तिम् । त्रिनेत्रभूरप्ययमत्रिनेत्रादुत्पादमासादयति स्म चित्रम्  ॥ २२-७५ ॥

 

गौरे प्रिये भातितमां तमिस्रा ज्यौत्स्नी च नीले दयिता यदस्मिन् ।

शोभाप्तिलोभादुभयोस्तयोर्वा सितासितां मूर्तिमयं बिभर्ति ॥ २२-९७ ॥

 

क्षत्त्राणि रामः परिभूय रामात्क्षत्त्राद्यथाभज्यत स द्विजेन्द्रः ।

तथैव पद्मानभिभूय सर्वांस्त्वद्वक्त्रपद्मात्परिभूतिमेति ॥ २२-१३३ ॥

 

आस्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं

शङ्के सुन्दरि शर्वरीपरिवृढस्तेनैव दोषाकरः ।

आदायेन्दुमृगादपीह निहिते पश्यामि सारं दृशौ

त्वद्वक्त्रे सति वा विधौ धृतिमयं दध्यादनन्धः कुतः ॥ २२-१४७ ॥

 

शुचिरुचिमुडुगणमगणनममुमतिकलयसि कृशतनु न गगनतटमनु ।

प्रतिनिशशशितलविगलदमृतभृतरविरथहयचयखुरबिलकुलमिव ॥ २२-१४८ ॥

 

स्वर्भानुप्रतिवारपारणमिलद्दन्तौघयन्त्रोद्भव-

श्वभ्रालीपतयालुदीधितिसुधासारस्तुषारद्युतिः ।

पुष्पेष्वासनतत्प्रियापरिणयानन्दाभिषेकोत्सवे

देवः प्राप्तसहस्रधारकलशश्रीरस्तु नस्तुष्टये ॥ २२-१५० ॥ नैषधीयचरितम्

 

All verses submitted by Nityanand Misra

—————————————————————————————————

 

उदयतटान्तरितमियं प्राची सूचयति दिङ्निशानाथम् ।

परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ रत्नावली (१-२४) श्री हर्षदेवस्य

 

पुरः पूर्वामेव स्थगयति ततोऽन्यामपि दिशं

क्रमात्क्रामन्नद्रिद्रुमपुरविभागांस्तिरयति।

उपेतः पीनत्वं तदनु भुवनस्येक्षणफलं

तमःसंघतोऽयं हरति हरकण्ठद्युतिहरः ॥ रत्नावली (३-७) श्री हर्षदेवस्य

Submitted by Rajagopalan Ayilam

—————————————————————————————————

मातर्व्योम्नि क एष मन्मुखरुचिस्त्वन्नामपश्चार्द्धभाग्

भो नो नागरिपोः समानसुभगः कर्पूरको नो शिशो ।

तत्पर्यायपदेन यो मित इति ज्ञातस्ततश्चन्द्रमाः

कौसल्या प्रतिभामिमां रघुपतेर्वीक्ष्यावताद्विस्मिता ॥ गीतरामायणे सन्दर्भश्लोकः १-४-६-१ ।

 

मातः कोऽयमिहाम्बरे कथय भो त्वद्भालविन्दूपमः

क्षीराब्धेर्नवनीतकं प्रदिश मे खादिष्यते साम्प्रतम् ।

छीः छीः तत्र तु वर्ततेऽसितविभः किं खाद्यतां पुत्रकः

प्रक्षाल्यर्षिसुताजलेऽवतु हरिर्विस्मापयन् कैकयीम् ॥ गीतरामायणे सन्दर्भश्लोकः १-४-७-१ ।

 

अथ शरदमलेन्दौ मञ्जुमाधुर्यसिन्धौ नमितनयननौकौ दम्पती पावनौ कौ ।

कसुतदुहितृतीरे वल्गुवानीरनीरेऽधिरजनि रममाणौ रेजतू राजपुत्रौ ॥१॥ गीतरामायणे सन्दर्भश्लोकः २-४-५-१

All three verses composed by Jagadguru Rāmabhadrācārya and submitted by Nityanand Misra

——————————————————————————————————-

शर्वरी पण्डितैः प्रायशो युज्यते

क्रोधमोहासतां भावनार्थं त्विह ।

किन्तु सा साधकेभ्यस्सुयोगैस्सदा

धन्यतां प्रापयन्ती सदा राजते ॥ १ ॥

 

अन्धकारो यथा क्रोधमोहाविति

तद्गते भाति भा भास्करस्यैव तत् ।

एवमेवास्ति तन्मोहभावे गते

ज्ञानभा भाति चेत्थं जनानां मतम् ॥ २ ॥

 

केन तच्चिन्तितं छात्रतः शर्वरी

साधकायैति ध्यानं प्रदायैव सा ।

तैस्सदा दर्शितव्या हि सा धन्यता

केन वै दर्शिता ज्ञानिना भूतले ॥ ३ ॥ धन्या शर्वरी

 

कामिनौ चागातौ प्रेयासीश्चुमबितुम्

तौ च रात्रौ मुदालिङ्गने कुञ्चितौ |

तादृशाः वै ललाटे कपोले तथा

नेत्रायोश्चुमबने स्युः रताः नित्यशः || १ ||

 

प्रीतिरालिङ्गने गाढतां प्रापयन्

प्रेयसीं वीक्ष्य तां श्वासरुद्धो भवन् ।

ईषहास्यं हसन्त्याः पपौ तां छटाम्

मन्दविद्युत्प्रकाशेऽस्ति सा स्वर्गता ॥ २ ॥

 

सापि ह्यालिङ्गने प्रीतिरक्षाकरी

चुम्बने दक्षतां या गता भूतले ।

साधुरात्रावपि सुस्मितिर्वै लसेत्

कुञ्चने स्पर्शने लेहने चुम्बने ॥ ३ ॥

 

स्वल्परक्तं नवं कोमलं पल्लवम्

स्थीयते ह्योष्ठयोर्भाति तस्यास्त्विह ।

दृश्यते चन्द्रिकालेपिते भूतले

ता मधुं रक्ततां कर्षितोऽहं स्वयम् ॥ ४ ॥

 

कामिनीचुम्बने नग्नकठ्यां निशा

हस्तसंस्पृष्टतां सा गताऽऽभूत् यदा ।

कम्पने रक्तवर्णा हि सालिङ्गति

प्रेमिणं पातयन्ती निपीड्यैव तम् ॥ ५ ॥

 

कामिनीनेत्रयोः रक्तिमा क्रीडति

चुम्बने तौ कपोलौ गतौ रक्तताम्

यौवनं दर्शयच्छोभितोरस्थलम्

चन्द्रदेवोऽप्यभून्मोहितो वीक्ष्य ताम् ॥ ६ ॥ कामिनोः समागमः

Both poems composed and submitted by Dr Shiva Acharya, Assam

———————————————————————————————

 

कौमुदी सुन्दरी ह्याप्लुता भूत् भुवि

कौमुदी प्रैति सा तत्र पूर्णं मुदम् ।

मन्दवायोरपि प्राप्य सत्स्पर्शनम्

याति तन्नर्तनं सुन्दरं भूतले ॥ १ ॥

 

चन्द्रिका नृत्यति स्नाति चैषा धरा

शुभ्रतां प्रापिताऽभूदनन्या त्वियम् ।

शारदीया निशावद् यदा दृश्यते

तत्र वै मे मनोऽकिञ्चनत्वं गतम् ॥ २ ॥

 

प्राप्य पद्मं यथा षट्पदः नृत्यति

विस्मृतिं प्राप्य नित्यं नरीनृत्यते ।

कामनां वर्धयन्ती हि सा पूर्णिमा

व्यक्तिचित्ते यदा वायुवद्यागता ॥ ३ ॥

 

रात्रिमुद्दीप्य चेतांसि सा पूर्णिमा

नन्दनं लाति सा प्रेमिणश्चान्तरे ।

प्रेयसीं वै प्रियः तं प्रियं प्रेयसी

वीक्ष्य चानन्दितौ तावभूतां तथा ॥ ४ ॥

 

यत्र वै षट्पदैर्मुच्यमाना सती

तत्र सा कौमुदी प्राप्य स्वच्छन्दताम् ।

वायुना सा यदा स्पृश्यमाना ह्यभूत्

सास्ति नैजं मुदा दर्शयन्ती सदा ॥ ५ ॥

 

पुष्पनीलाञ्चलं शीर्षतः नौति यत्

तज्जलञ्चैव संस्पृश्य किञ्चिद् गतम् ।

पद्मिनी मन्दहास्यं वितीर्यैव सा

चाति शृङ्गारतां प्रापयन्त्यै नमः ॥ ६ ॥

 

तत्र नैसर्गिकी या छटा नृत्यति

चन्द्रिका पश्यति स्निग्धता क्रीडति ।

पादसञ्चालने नूपुरैर्नर्तने

कामिनी स्रग्विणी शर्वरी वाति सा ॥ ७ ॥ पूर्णिमाछटा

Composed and submitted by Dr Shiva Acharya, Assam

———————————————————————————————

ततः स मध्यंगतमंशुमन्तं

ज्योत्स्नावितानं मुहुरुद्धमन्तम् ।

ददर्श धीमान् भुवि भानुमन्तं

गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ ५.५.१ ॥

 

लोकस्य पापानि विनाशयन्तं

महोदधिं चापि समेधयन्तम् ।

भूतानि सर्वाणि विराजयन्तं

ददर्श शीतांशुमथाभियान्तम् ॥ ५.५.२ ॥

 

या भाति लक्ष्मीर्भुवि मन्दरस्था

यथा प्रदोषेषु च सागरस्था ।

तथैव तोयेषु च पुष्करस्था

रराज सा चारुनिशाकरस्था ॥ ५.५.३ ॥

 

हंसो यथा राजतपञ्जरस्थः

सिंहो यथा मन्दरकन्दरस्थः ।

वीरो यथा गर्वितकुञ्जरस्थ–

श्चन्द्रोऽपि बभ्राज तथाम्बरस्थः ॥ ५.५.४ ॥

 

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो

महाचलः श्वेत इवोर्ध्वशृङ्गः ।

हस्तीव जाम्बूनदबद्धशृङ्गो

रराज चन्द्रः परिपूर्णशृङ्गः ॥ ५.५.५ ॥

विनष्टशीताम्बुतुषारपङ्को

महाग्रहग्राहविनष्टपङ्कः ।

प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को

रराज चन्द्रो भगवाञ्शशाङ्कः ॥ ५.५.६ ॥

शिलातलं प्राप्य यथा मृगेन्द्रो

महारणं प्राप्य यथा गजेन्द्रः ।

राज्यं समासाद्य यथा नरेन्द्र–

स्तथा प्रकाशो विरराज चन्द्रः ॥ ५.५.७ ॥

प्रकाशचन्द्रोदयनष्टदोषः

प्रवृत्तरक्षःपिशिताशदोषः ।

रामाभिरामेरितचित्तदोषः

स्वर्गप्रकाशो भगवान् प्रदोषः ॥ ५.५.८ ॥ रामायणम्

Submitted by Nityanand Misra

—————————————————————————————-

रात्रे, त्वत्समये विशुद्धमनसा ध्यानं गता योगिनः

भक्ताः प्रेमहृदा स्वसेव्यमनिशं प्राप्तुं प्रयासे रताः ।

चौराः जाग्रति चोरणाय नितरां ध्वान्तं सुहृच्चेष्टदम्

अन्येषामपराधिनां च फलदा, सर्वैः सदाराध्यसे ॥ १ ॥

 

जीवैर्नित्यमहो दिनन्तु करणं कृत्वा यदा श्राम्यते

विश्रामाय हि निद्रया गमयितुं कालः सदा काम्यते ।

प्रेयस्या सह कामिनश्च मिलितुं वाञ्छन्ति रात्रिं सदा

भो रात्रे, महिमा तवास्ति हि माहन् तुभ्यं प्रणामः सदा ॥ २ ॥

 

पृथ्वीयं दिवसे स्वसन्ततिजनान् सम्पोषयन्ती स्थिता

श्रान्ता विश्रमितुं शुभेच्छति सदा शय्याप्रकोष्ठे रता ।

श्रान्तां सेवितुमागता तु रजनी ध्वान्तैः सुवस्त्रैः सह

तद्ध्वान्तेन च सानुमीयत अहो श्यामायमाना बधूः ॥ ३ ॥

 

वस्त्रेऽस्मिन् खलु हैमसूत्ररचितास्ताराश्च ताः सज्जिताः

बध्वा उन्नत कृष्णभालपटले चन्द्रो हि सच्चन्दनम् ।

मेदिन्या मुखपङ्कजस्य सुरभिं ह्याघ्रातुकामः स्वयम्

मन्दं वाति सुशीतलश्च पवनो देवः परैः शङ्कितः ॥ ४ ॥

 

खद्योतान् पुरतो विधाय रजनीं दूतिञ्च सम्प्रेषयन्

स्वां प्रीतिं परिदर्शयन् हि पवनः द्रष्टुं मुखाब्जं खलु ।

सङ्गीतं मधुरं च कारयति भो तैः शिञ्जिनीशब्दकैः

रात्रौ हृद्द्रवते विलोक्य पवनं देव्या धरण्यास्तदा ॥ ५ ॥

 

तद्दृष्ट्वा हि गवाक्षतो निशि शशी कामायमानः पुनः

रोहिण्याश्च तनुं स्ववक्षसि विधुः कृत्वैव शान्तिं गतः ।

पीड्यन्ते मुनयोऽपि पुष्पधनुषा दृष्टास्तु कामेन ते

यस्याङ्के विलसेत् सदा सुनयना तस्यास्ति का वा कथा ?॥ ६ ॥

 

शान्तास्ते हरयः शृगालकपयः शान्ताः शशास्ते मृगाः

शान्ता वन्यलताश्च गुल्मतरवः शान्तो मयूरध्वनिः ।

शान्तं तत् सरसाञ्जलन्तु नितरां शान्तानि पुष्पाणि भोः

विश्रान्तौ निलयं गतं जगदिदं रात्रौ हि शून्या स्थितिः ॥ ७ ॥

 

रात्रौ तैर्यतिभिर्विशुधमतिभिः सञ्जागृतैर्भूयते

पूर्णे ब्रह्मणि चार्प्यते निजमनः सँल्लाप्यते ब्रह्मणि ।

रात्रौ शब्दविहीनशान्तसमये चित्तं विशुद्धं निजम्

षट्चक्राणि विभेद्य यान्ति परमं धामाख्यशान्तं पदम् ॥ ८ ॥

 

रात्रिं तत्खलु चक्रवाकमिथुनन्नित्यं शपत्तिष्ठति

अन्योन्येन वियुज्य याति विरहं क्रोशच्च जाग्रद्भवेत् ।

रात्रौ तत्कुमुदञ्च कैरववनं पश्यद्विधुं फुल्लति

ज्योत्स्ना सा शशिनः सुगन्धपवनं चित्ते प्रियं कस्य न? ॥ ९

 

शीत्कारः पवनस्य निर्झररवं प्रत्याह्वयन् स्याद् गतः

झङ्कृत्या सह नृत्यकेलिनिरतास्ताः झिल्लिकाः स्वैः रवैः ।

वेणूनां किल रन्ध्रनिर्गतरवैर्भ्रान्तिर्मुरल्या ध्वनेः

स्युर्वा रासविहारगीतगतयस्तत्पूर्णिमा पर्वणि ॥ १० ॥ भोः शर्वरि ते नमः

Submitted and composed by Dr Tulsisharana, Assam

————————————————————————————-

अस्ताचलाद्रिमभिचुम्बितसूर्यबिम्बम्

रिक्तोदयाद्रिमवलम्बितचन्द्रमण्डलम् ।

सन्ध्यासु बिम्बद्वयन्यस्तहस्ता

तालद्वयेन सह नर्तयतीव रात्रिः ॥

 

विरहकलुषग्रस्ता क्रन्दते चक्रवाकी

विमलहसितरिक्ता मीलिताऽम्बुजश्रीः ।

विरचिततममग्ना श्यामला भूमिकव्या

विगतसकलकान्तिः मित्रहीने विधाने ॥

 

व्योमगङ्गासरोपातं कामभूपालनन्दनम् ।

पार्वणोऽयं चन्द्रबिम्बं आशास्त्रीकुंकुमाङ्कितम् ॥

All three composed and submitted by Dr S Hemalatha, Bangalore

——————————————————————————————-

चौरकार्ये रतान् दुर्जनान् वै निशा

मातृवत् लाति सा नेत्रयोर्प्रेरणा ।

धन्यतां वै वदन्तोऽपि ते दुर्जनाः

यान्ति ग्रामान् सदा हर्तुमित्थं धनम् ॥ १ ॥

 

हस्तयोरस्त्रधृक् दुर्जनो याति यः

याति गोपायितुं चेज्जनिर्वीक्षितः ।

कोऽपि मार्गे हठाद्दृश्यते सम्मुखे

तस्य वै जीवितं दुर्लभं भूतले ॥ २ ॥

 

कर्णयोः कुण्डले कण्ठतः हारकम्

हस्तयोः कङ्कणे पादयोः नूपुरे ।

स्वप्नमग्ना त्वियं कामिनी स्यादपि

चौरहस्तौ सदा लुण्ठितुं धावतः ॥ ३ ॥ रात्रिचरः चौरः

Composed and submitted by Dr Shiva Acharya, Assam

———————————————————————————

चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका ।
अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥ ४.३०.४५ ॥

 

रात्रिः शशाङ्कोदितसौम्यवक्त्रा
तारागणोन्मीलितचारुनेत्रा ।
ज्योत्स्नांशुकप्रावरणा विभाति
नारीव शुक्लांशुकसंवृताङ्गी ॥ ४.३०.४६ ॥

 

सुप्तैकहंसं कुमुदैरुपेतं
महाह्रदस्थं सलिलं विभाति ।
घनैर्विमुक्तं निशि पूर्णचन्द्रं
तारागणाकीर्णमिवान्तरिक्षम् ॥ ४.३०.४८ ॥ रामायणम्

All three submitted by Nityanand Misra

—————————————————————————————

शर्वरी भाति मे प्रीतितष्टा त्वियम्

साधकैर्पूजिता कामिभिर्वन्दिता ।

श्रेष्टकाव्यं वहन्ती सदा गच्छति

तां स्मरन् काव्यमार्गं त्वहं कामये ॥ १

 

शर्वरी पुस्तिका शर्वरीं प्रेक्षते

शर्वरीणां सदा कीर्तनं गायति ।

शर्वरी मोहिनी मानवैर्मानिता

प्रेयसी शर्वरी नर्तने स्याद्रता ॥ २

 

मोदयेत् कौमुदी कौमुदीं स्वां यथा

पुष्पवल्ल्याः लसेत्  सा स्थितिर्वै तथा ।

कौमुदीनर्तने मे मनः नृत्यति

नर्तने नर्तनं वीक्ष्य तन्नृत्यति ॥ ३ ॥ शर्वरीमहिमा

Composed and submitted by Dr Shiva Acharya, Assam

———————————————————————————-

दष्टतामरसकेसरस्रजोः क्रन्दतोर्विपरिवृत्तकण्ठयोः ।
निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ॥ ८.३२

सोऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः ।
अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥ ८.४२

सान्ध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् ।
संपरायवसुधा सशोणितं मण्डलाग्रमिव तिर्यगुत्थितम् ॥ ८.५४

यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा ।
एतदन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते ॥ ८.५५
नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः ।
लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥ ८.५६

नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
पुण्डरीकमुखि पूर्वदिङ्मुखं कैतकैरिव रजोभिरावृतम् ॥ ८.५८

अङ्गुलीभिरिव केशसञ्चयं सन्निगृह्य तिमिरं मरीचिभिः ।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ ८.६३

एतदुच्छ्वसितपीतमैन्दवं सोढुमक्षममिव प्रभारसम् ।
मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात्  ॥ ८.७०

एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी ।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥ ८.७३ कुमारसम्भवम्

All nine submitted by Nityanand Misra

————————————————————————————-

मातृवात्सल्यकल्पाऽवदाताऽखिलां

रोदसीमेव संगूहते चन्द्रिका ॥ १ ॥

चन्द्रकुम्भच्युतक्षीरभारोच्चय-

प्राप्तसाम्या धरामूर्णुते चन्द्रिका ॥ २ ॥

तूर्णमासाद्य सौधं कुटीरं गृहं

तुल्यरागैः श्मसानं स्तुते चन्द्रिका ॥ ३ ॥

वीक्ष्य शीतार्दितां भूतधात्रीमहो

तूलताल्पैरिव त्रायते चन्द्रिका ॥ ४ ॥

ध्वान्तवृन्दव्यपोहे प्रभाभी रवेः

स्पर्धमाना न किं युद्ध्यते चन्द्रिका ।। ५ ॥

रात्र्यजापालिकाऽकाङ्क्षया सञ्चर-

न्मेषकोटिच्छविं सूयते चन्द्रिका ॥ ६॥

कान्तमिन्दुं समालिङ्ग्य रोगोन्मदा

स्रस्तनीव्यम्बरं मुञ्चते चन्द्रिका ॥ ७ ॥

चित्रशैलूषिकेवाऽभ्रगङ्गाश्रियं

शम्भुहासच्छविं नह्यते चन्द्रिका ॥ ८ ॥

स्नातुमेषाऽभिराजोक्ति-पाथोनिधौ

कृष्णपक्षेऽपि तं विन्दते चन्द्रिका ॥ ९ ॥ चन्द्रिका

 

 

दिवसकरमरीचिप्रौढतापप्रदग्धं

सुभगदयितकल्पं छन्नदेहप्रकाशम् ।

निभृतनिभृतमेवाऽसेवितुं भव्यवामा

धरणितलमुपेता गुर्जरेषु त्रियामा ॥ १ ॥

 

दिशमथ दिननाथे वारुणीं लम्बमाने

श्रयति शमितजल्पे पक्षिवृन्दे कुलायम् ।

प्रसृमरसुमगन्धैरागमं सूचयन्ती

मदयति मधुपालीं गुर्जरेषु त्रियामा ॥ २ ॥

 

मुदितकुमुदबन्धुप्रीतसौभाग्यबिन्दु-

प्रथितविशदभालाऽमुद्रिताऽरक्ततारा ।

व्रजयुवतिदुकूलस्तोमहृत्कृष्णवर्णा

समवतरति मुग्धा गुर्जरेषु त्रियामा ॥ ३ ॥

 

जलधिलहरिलोल्लज्झर्झरीतालबन्धै-

र्मदकलविहगालीकण्ठनिर्यन्निनादैः ।

पवनधुततरुत्थोद्दामझम्पाङ्घिचारी

नटति पटुनटीयं गुर्जरेषु त्रियामा ॥ ४ ॥

 

दरविकसितमल्लीमञ्जुनेत्रा प्रशान्त-

भ्रमरनिचयचञ्चत्कज्जलालेखरम्या ।

असितजलदमालासौम्यशाटी सलज्जा

सरति नववधूटी गुर्जरेषु त्रियामा ॥ ५ ॥

असितजलधिवक्षस्तल्पके पर्यटन्ती

निविडतिमिरलेखा शम्भलीवेन्दुवक्त्रा ।

धरणितलमुपैति ध्वान्तलीलानिगूढं

पिशुनविटसहाया गुर्जरेषु त्रियामा ॥ ६ ॥

 

समवतरणवेलां वासुदेवस्य काञ्चि-

च्छ्रयदविशदपक्षां भाद्रपद्याऽष्टमीकाम् ।

स्वतनुविभवसाम्यां स्मारयन्ती सगर्वा

लुठति तुलितकृष्णा गुर्जरेषु त्रियामा ॥ ७ ॥

 

त्रिदशपतिनमस्यामानयन्ती सहेलं-

त्रिनयनचरणाब्जद्वन्द्वके सेविकेव ।

पणवमुरजघण्टाशङ्खभृत्सोमनाथा-

नदति ललितकण्ठा गुर्जरेषु त्रियामा ॥ ८ ॥

 

जलधिकुहरसुप्तैः शुक्तिशङ्खप्रवालै-

स्तुहिनविशदवर्णैर्दस्युभीतैः प्रकामम् ।

असितपटनिभैः स्वैः प्रार्थिता ध्वान्तयूथै-

रवितुमतति सत्त्वं गुर्जरेषु त्रियामा ॥ ९ ॥

 

विकचकुमुदनेत्रा यूथिकामञ्जुहासा

सरसिजमृदुकाण्डाऽताम्रहस्ताङ्घ्रियुग्मा ।

तरुशिखरकुलायोन्निद्रपक्षिप्रजल्पा

समभिसरति चन्द्रं गुर्जरेषु त्रियामा ॥ १० गुर्जरेशु त्रियामा

Both poems submitted and composed by Professor Abhiraj Rajendra Mishra, Shimla

————————————————————————————————

किमपि किमपि मन्दं मन्दमासक्तियोगात्

अविरलितकपोलं जल्पतोरक्रमेण |

अशिथिलपरिरम्भव्यापृतैकैकदोष्णो:

अविदितगतयामा रात्रिरेव व्यरंसीत् || १.२७ उत्तररामचरितम्

 

मात:!  किं यदुनाथ? देहि चषकं, किं तेन? पातुं पय:,

तन्नास्त्यद्य, कदास्ति वा?, निशि, निशा कावान्धकारोदये |

आमील्याक्षियुगं निशाप्युपगता देहीति मातर्मुहु:

वक्षोजांबरकर्षणोद्यतकर: कृष्णस्स पुष्णातु न: || कृष्णकर्णामृतम्

Both submitted by PK Ramakrishnan, http://peekayar.blogspot.com

———————————————————————————-

राकाकान्तैककान्तिः कसितकुवलया कञ्जतल्पालिमाला

मालानक्षत्रमाला कुमुदितकुमुदा कोकशोकाऽप्यशोका ।

निद्रामित्राऽऽधिभीत्रा शिशिरकरकरा सच्चकोरार्यचित्रा

काचित्कान्तेव कान्तालककलितकला शर्वरी शं वृणोति ॥

Composed by Jagadguru Ramanandacharya Swami Rambhadracharya, submitted by Nityanand Misra

——————————————————————————————————–

नक्तन्तारासुरवरवधूवेष्टितश्चन्द्रमारो

व्योमारण्ये तिमिरनिकरान् नाशयन् स्वान् विपक्षान् ।

रत्यङ्काङ्को दयितविरहाच्छुष्कहृद्ध्रादिनीं वै

सिञ्चञ्ज्योत्स्नामृतवरकणैस्तापयत्येष दीनान् ॥

 

दोषाऽऽयाता शशधरधवं ध्वान्तिकाभ्यन्तरीया

तुङ्गक्ष्माभृद्विलसदधरा मेघकेशा खसद्मा ।

विद्युन्नेत्रा भगणकृतचूडामणिर्वीचिजिह्वा

सुप्रत्यूषोऽरुणवलयभूषा मयूखोत्तरीया ॥

Both verses composed by Vishwambhar Upadhyay Shastri of Ramanuja Samskrita Mahavidyalaya, Varanasi; submitted by Nityanand Misra

——————————————————————————————————-

तारागणप्रवरभूषणमुद्वहन्ती

मेघावरोधपरिमुक्तशशाङ्कवक्त्रा।

ज्योत्स्नादुकूलममलं रजनी दधाना

वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला॥

३.७ ऋतुसंहारम्

 

अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले।

निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः॥

९-२१ किरातार्जुनीयम्

Both verses submitted by A.S.Rajagopalan

——————————————————————————————–

धूमस्तोमं तम: शङ्के कोकीविरहशुष्मणाम्।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभ:॥

पिनष्टीव तरङ्गाग्रै: समुद्र: फेनचन्दनम्।
तदादाय करैरिन्दु: लिम्पतीव दिगङ्गना:॥

Both submitted by Sunita Ramanathan, Bangalore

————————————————————————————-

संचारिणी दीपशिखेव रात्रौ

यं यं व्यतीयाय पतिंवरा सा |

नरेन्द्रमार्गाट्ट इव प्रपेदे

विवर्णभावं स स भूमिपाल:  || ६.६७ रघुवंशम्

Submitted by PK Ramakrishnan, http://peekayar.blogspot.com

——————————————————————————————-

नायं राकाशशी किन्तु स्थिता सन्दर्शनाय ते ।

कराग्रे मुकुटं कृत्वा चतुरा रात्रिनायिका ॥

 

अम्भःसंभृतिमन्थराम्बुदरवैः शालूरगर्जाभर-

प्रारब्धप्रियविप्रयुक्तयुवतीजीवग्रहे भीषणाः  ।

विद्युद्दन्तुरितान्धकारपटला गाम्भीर्यबद्धारव-

स्थैर्योन्मूलनशक्तयः कथममी निर्यान्ति वर्षानिशाः  । । २५९० – महासुभाषितसंग्रहः

 

पीताम्भःस्तिमिताः सृजन्ति सलिलान्याबद्धधारं घना-

स्तद्धाराध्वनिमीलितानि नयनान्यभ्येति निद्रागमः |

निद्रामुद्रितलोचने प्रतिगृहं मूकायमाने जने

निर्द्वन्द्वोच्चरदुच्चदर्दुररवैः कोलाहलिन्यो निशाः ||  १०.९ (२२३) –  सुभाषितरत्नकोशः

 

तुषारसङ्घातनिपातशीतलाः
शशाङ्कभाभिः शिशिरीकृताः पुनः।
विपाण्डुतारागणजिह्मभूषिता
जनस्य सेव्या न भवन्ति रात्रयः॥  ५.४ ऋतुसंहारम्

All four submitted by HN Bhat, EFEO Pondicherry

———————————————————————————————————

शशिना च निशा निशया च शशी शशिना निशया च विभाति नभः।
कविना च विभुर्विभुना च कविः कविना विभुना च विभाति सभा॥

Submitted by Kiran Paranjape, http://sanskrit-quote.blogspot.in/\\

———————————————————————————————————-

 

कपाले मार्जारः पय इति कराँल्लेढि शशिन-

स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति ।

रतान्ते तल्पस्थान्हरति दयिताप्यंशुकमिति

प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥

३.११४ सरस्वतीकण्ठाभरणम्

 

घनतरतिमिरघुणोत्करजग्धानमिव पतन्ति काष्ठानाम् ।

छिद्रैरमीभिरुडुभिः किरणव्याजेन चूर्णानि ॥

२.५३ अनर्घराघवम्

 

किं नु ध्वान्तपयोधिरेष कतकक्षोदैरिवेन्दोः करै-

रत्यच्छोऽयमधश्च पङ्कमखिलं छायापदेशादभूत् ।

किं वा तत्करकर्तरीभिरभितो निस्तक्षणादुज्ज्वलं

व्योमैवेदमितस्ततश्च पतिताश्छायाच्छलेन त्वचः ॥

२.७५ अनर्घराघवम्

 

लेखामनङ्गपुरतोरणकान्तिभाजमिन्दोर्विलोकय तनूदरि नूतनस्य |

देशान्तरप्रणयिनोरपि यत्र यूनोर्नूनं मिथः सखि मिलन्ति विलोकितानि ||

९०३ सुभाषितरत्नकोषम्

All four verses submitted by A.S.Rajagopalan

—————————————————————————————

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।।
२.६९ श्रीमद्भगवद्गीतायाम्

आधिक्षामां विरहशयने संनिषण्णैकपार्श्वाम् ।

प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।

नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या ।

तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीं ।।उत्तरमेघे – २६।।

Both verses submitted by SL Abhyankar. http://slabhyankar.wordpress.com | http://study1geetaa2sanskrit.wordpress.com | http://slez-musings.blogspot.com

——————————————————————————————————-

अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये।

जायते जीवलोकस्य हर्तुमर्धमिवाऽऽयुषः॥ (अतः इति प्रतीच्याः)

उद्योगपर्व – महाभारतम्

 

सुस्पर्शहस्ते स्मरहे सुशान्ते सुमन्दगे शंकरि मृत्युकल्पे।

मां द्वेष्टि मृत्युर्बहुशेषमार्गं छायां तु रात्रे मम देहि तस्य॥

Both verses submitted by Phillip Ernest, Pune – http://dainikahshlokah.blogspot.com/

———————————————————————————————————-

ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी-
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्‌।
द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन॥

Quoted in Alaṅkārasarvasva of Ruyyaka, Kāvyaprakāśa of Mammaṭa and Kuvalayānanda of Appayadīkṣita

निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः ।

धारानिपातैः सह किं नु वान्तश्चन्द्रोऽ ऽयमित्यार्ततरं  ररास ॥

Both submitted by HN Bhat, EFEO Pondicherry

————————————————————————————————-

स्मरामि जाग्रन्नहमर्धरात्रे दुःख्यात्मनो दुश्चरितानि दोषान्।

मा मे प्रभातामिति चिन्तयन्वै परैव मे रात्रिरियं भवेच्च॥

Composed and submitted by Phillip Ernest, Pune – http://dainikahshlokah.blogspot.com/

———————————————————————————–

उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्।

यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम्॥

Submitted by Sunita Ramanathan, Bangalore

—————————————————————————————

अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे

सारङ्गं कतिचिच्च सञ्जगदिरे भूच्छायमैछन् परे |

इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते

तत् सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥

 

परिपतति पयोनिधौ पतङ्गः

सरसिरुहामुदरेषु मत्तभृङ्गः ।

उपवनतरुकोटरे विहङ्गः

युवतिजनेषु शनैश्शनैरनङ्गः ॥

From the Bhojaprabandha (This verse was in response to the king’s request for a description of the setting sun. The first three poets delivered the first three lines and were awarded handsomely; but the greatest prize was reserved for the last poet, Kalidasa.)

Both verses submitted by PK Ramakrishnan (http://peekayar.blogspot.com)

——————————————————————————————–

रात्रिर्गमिष्यति भविष्यति सुप्रभातं

भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।

इत्थं विचारयति कोषगते द्विरेफे

हा हन्त हन्त नलिनीं गज उज्जहार ॥

Submitted by Kiran Paranjape (http://sanskrit-quote.blogspot.in/)

——————————————————————————

चक्षुर्लग्नमिवातिमांसलमसीवर्णायते यन्नभ:

पार्श्वस्त्था इव भान्ति हन्त कुकुभो नि:सन्द्धिरुद्धान्तरा: ।

विन्यस्तात्मपदप्रमाणाकमिदं भूमीतलं  ज्ञायते

किंचान्यत्करसङ्गमैकगमक: स्वाङ्गेपि सम्प्रत्यय: ॥

Anonymous | Submitted by DKM Kartha, Missoula, MT,  USA

 

One thought on “The Anthology

  1. Pingback: Śarvarī: The Night | Rasala

Comments are closed.